|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.223. अध्यायः 223
Mahabharata - Adi Parva - Chapter Topics
पाण्डवाः संविभाज्या इति द्रोणवचनम्॥ 1 ॥
तद्विरोधितया कर्णेन अम्बुवीचवृत्तान्तकथनम्॥ 2 ॥
मदुक्तं न क्रियते चेत्कुरवो विनङ्क्ष्यन्तीति द्रोणेनोक्तिः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
द्रोण उवाच। 1-223-0x(1224)(9676)
मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप।
धर्म्यमर्थ्यं यशस्यं च वाच्यमित्यनुशुश्रुम॥ 1-223-1(9677)
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः।
संविभज्यास्तु कौन्तेया धर्म एष सनातनः॥ 1-223-2(9678)
प्रेष्यतां द्रुपदायाशु नऱः कश्चित्प्रियंवदः।
बहुलं रत्नमादाय तेषामर्थाय भारत॥ 1-223-3(9679)
मिथः कृत्यं च तस्मै स आदाय वसु गच्छतु।
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा॥ 1-223-4(9680)
संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा।
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत॥ 1-223-5(9681)
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्।
पुनःपुनश्च कौन्येयान्माद्रीपुत्रौ च सान्त्वयन्॥ 1-223-6(9682)
हिरण्मयानि शुभ्राणि बहून्याभरणानि च।
वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु॥ 1-223-7(9683)
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ।
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च॥ 1-223-8(9684)
`दत्त्वा तानि महार्हाणि पाण्डवान्संप्रहर्षय।'
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह।
उक्त्वा सोऽनन्तरं ब्रूयात्तेषामागमनं प्रति॥ 1-223-9(9685)
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्।
दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह॥ 1-223-10(9686)
ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया।
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके॥ 1-223-11(9687)
एतत्तव महाराज तेषु पुत्रेषु चैव हि।
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत॥ 1-223-12(9688)
कर्ण उवाच। 1-223-13x(1225)
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ।
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः॥ 1-223-13(9689)
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना।
ब्रूयान्नि)श्रेयसं नाम कथं कुर्यात्सतां मतम्॥ 1-223-14(9690)
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा।
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्॥ 1-223-15(9691)
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः।
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति॥ 1-223-16(9692)
श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः।
आसीद्राजगृहे राजा मागधानां महीक्षिताम्॥ 1-223-17(9693)
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः।
अमात्यसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा॥ 1-223-18(9694)
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा।
स लब्धबलमात्मानं मन्यमानोऽवमन्यते॥ 1-223-19(9695)
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च।
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा॥ 1-223-20(9696)
तदादाय च लुब्धस्य लोभाल्लोभोऽभ्यवर्धत।
तथाहि सर्वमादाय राज्यमस्य जिहीर्षति॥ 1-223-21(9697)
हीनस्य करणैः सर्वैरच्छ्वासपरमस्य च।
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतं॥ 1-223-22(9698)
किमन्यद्विहिता नूनं तस्य सा पुरुषेन्द्रता।
यदि ते विहितं राज्यं भविष्यति विशांपते॥ 1-223-23(9699)
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्धुवम्।
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे॥ 1-223-24(9700)
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम्।
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्॥ 1-223-25(9701)
द्रोण उवाच। 1-223-26x(1226)
विद्म ते भावदोषेण यदर्थमिदमुच्यते।
दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत॥ 1-223-26(9702)
हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम्।
अथ त्वं मन्यसे दुष्टं ब्हूहि यत्परमं हितम्॥ 1-223-27(9703)
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम्।
कुरवो वै विनङ्क्ष्यन्ति नचिरेणैव मे मतिः॥ ॥ 1-223-28(9704)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः॥ 223 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-223-4 मिथः कृत्यं सांबन्धिकं वरपक्षीयैर्वध्वलंकारादिकन्यापक्षीयैर्वरालंकारादि॥ 1-223-15 विधिपूर्वं अधृष्टकारणकम्॥ 1-223-17 अम्बुवीर इति श्रुतः इति घ. पाठः। विनिन्द इति वितश्रुः इति ङ पाठः। ईश्वरः समर्थः। राजगृहे तन्नामके नगरे॥ त्रयोविंशत्यधिकद्विशततमोऽध्यायः॥ 223 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|